|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.24. अध्यायः 024
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति राजधर्मकथनपर्वकं राज्यपालनचोदना॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-24-0x(6230)(75117)
पुनरेव महर्षिस्तं कृष्णद्वैपायनोऽर्थवत्।
अजातशत्रुं कौन्तेयमिदं वचनमब्रवीत्॥ 12-24-1(75118)
अरण्ये वसतां तात भ्रातॄणां ते मनिस्विनाम्।
मनोरथा महाराज ये तत्रासन्युधिष्ठिर॥ 12-24-2(75119)
तानि मे भरतश्रेष्ठ प्राप्नुवन्तु महारथाः।
प्रशाधि पृथिवीं पार्थ ययातिरिव नाहुषः॥ 12-24-3(75120)
अरण्ये दुःखवसतिरनुभूता तपस्विभिः।
दुःखस्यान्ते नरव्याघ्र सुखान्यनुभवन्तु वै॥ 12-24-4(75121)
धर्ममर्थं च कामं च भ्रातृभिः सह भारत।
अनुभूय ततः पश्चात्प्रस्थाताऽसि विशांपते॥ 12-24-5(75122)
अर्थिनां च पितृणां च देवतानां च भारत।
आनृण्यं गच्छ कौन्तेय ततः स्वर्गं गमिष्यसि॥ 12-24-6(75123)
सर्वमेधाश्चमेधाभ्यां यजस्व कुरुनन्दन।
ततः पश्चान्महाराज गमिष्यसि परां गतिम्॥ 12-24-7(75124)
भ्रातृंश्च सर्वान्क्रतुभिः संयोज्य बहुदक्षिणैः।
संप्राप्तः कीर्तिमतुलां पाण्डवेय गमिष्यसि॥ 12-24-8(75125)
विझस्ते पुरुषव्याघ्र वचनं कुरुसत्तम।
शृणुष्वैवं यथा कुर्वन्न धर्माच्च्यवसे नृप॥ 12-24-9(75126)
आददानस्य विजयं विग्रहं च युधिष्ठिर।
समानधर्मकुशलाः स्थापयन्ति नरेश्वर॥ 12-24-10(75127)
`प्रत्यक्षमनुमानं च उपमानं तथाऽऽगमः।
अर्थापत्तिस्तथैतिह्यं संशयो निर्णयस्तथा॥ 12-24-11(75128)
आकार इङ्गितं चैव गतिश्चेष्टा च भारत।
प्रतिज्ञा चैव हेतुश्च दृष्टान्तोपनयस्तथा॥ 12-24-12(75129)
उक्तिर्निगमनं तेषां प्रमेयं च प्रयोजनम्।
एतानि साधनान्याहुर्बहुवर्गप्रसिद्धये॥ 12-24-13(75130)
प्रत्यक्षमनुमानं च सर्वेषां योनिरुच्यते।
प्रमाणज्ञो हि शक्नोति दण्डयोनौ विचक्षणः।
अप्रमाणवता नीतो दण्डो हन्यान्महीपतिम्॥ 12-24-14(75131)
देशकालप्रतीक्षी यो दस्यून्मर्षयते नृपः।
शास्त्रजां बुद्धिमास्थाय युज्यते नैनसा हि सः॥ 12-24-15(75132)
आदाय बलिषङ्भागं यो राष्ट्रं नाभिरक्षति।
प्रतिगृह्णाति तत्पापं चतुर्थांशेन भूमिपः॥ 12-24-16(75133)
निबोध च यथाऽऽतिष्ठन्धर्मान्न च्यवते नृपः।
निग्रहाद्धर्मशास्त्राणामनुरुद्ध्यन्नपेतभीः।
कामक्रोधावनादृत्य पितेव समदर्शनः॥ 12-24-17(75134)
दैवेनाभ्याहतो राजा कर्मकाले महाद्युते।
न साधयति यत्कर्म न तत्राहुरतिक्रमम्॥ 12-24-18(75135)
तरसा बुद्धिपूर्वं वा निग्राह्या एव शत्रवः।
पापैः सह न संदध्याद्राज्यं पुण्यं च कारयेत्॥ 12-24-19(75136)
शूराश्चार्याश्च सत्कार्या विद्वांसश्च युधिष्ठिर।
गोमिनो धनिनश्चैव परिपाल्या विशेषतः॥ 12-24-20(75137)
व्यवाहरेषु धर्मेषु योक्तव्याश्च बहुश्रुताः।
`प्रमाणज्ञा महीपाल न्यायशास्त्रावलम्बिनः॥ 12-24-21(75138)
वेदार्थतत्त्वविद्राजंस्तर्कशास्त्रबहुश्रुताः।
मन्त्रे च व्यवहारे च नियोक्तव्या विजानता॥ 12-24-22(75139)
तर्कशास्त्रकृता बुद्धिर्धर्मशास्त्रकृता च या।
दण्डनीतिकृता चैव त्रैलोक्यमपि साधयेत्॥ 12-24-23(75140)
नियोज्या वेदतत्त्वज्ञा यज्ञकर्मसु पार्तिव।
वेदज्ञा ये च शास्त्रज्ञास्ते च राजन्सुबुद्धयः॥ 12-24-24(75141)
आन्वीक्षकीत्रयीवार्तादण्डनीतिषु पारगाः।
ते तु सर्वत्र योक्तव्यास्ते च बुद्धेः परं गताः॥ ' 12-24-25(75142)
गुणयुक्तेऽपि नैकस्मिन्विश्वसेत विचक्षणः॥ 12-24-26(75143)
अरक्षिता दुर्विनीतो मानी स्तब्धोऽभ्यसूयकः।
एनसा युज्यते राजा दुर्दान्त इति चोच्यते॥ 12-24-27(75144)
ये रक्ष्यमाणा हीयन्ते दैवेनृभ्याहता नृप।
तस्करैश्चापि हीयन्ते सर्वं तद्राजकिल्विषम्॥ 12-24-28(75145)
सुमन्त्रिते सुनीते च सर्वतश्चोपपादिते।
पौरुषे कर्मणि कृते नास्त्यधर्मो युधिष्ठिर॥ 12-24-29(75146)
विच्छिद्यन्ते समारब्धाः सिद्ध्यन्ते चापि दैवतः।
कृते पुरुषकारे तु नैनः स्पृशति पार्थिवम्॥ 12-24-30(75147)
अत्र ते राजशार्दूल वर्तयिष्ये कथामिमाम्।
यद्वृत्तं पूर्वराजर्षेर्हयग्रीवस्य पाण्डव॥ 12-24-31(75148)
शत्रून्हत्वा हतस्याजौ शूरस्याक्लिष्टकर्मणः।
असहायस्य संग्रामे निर्जितस्य युधिष्ठिर॥ 12-24-32(75149)
यत्कर्म वै निग्रहे शात्रवाणां
योगश्चाग्र्यः पालने मानवानाम्।
कृत्वा कर्म प्राप्य कीर्ति स युद्धा
द्वाजिग्रीवो मोदते स्वर्गलोके॥ 12-24-33(75150)
संत्यक्तात्मा समरेष्वाततायी
शस्त्रैश्छिन्नो दस्युभिर्वध्यमानः।
अश्वग्रीवः कर्मशीलो महात्मा
संसिद्धार्थो मोदते स्वर्गलोके॥ 12-24-34(75151)
धनुर्यूपो रशना ज्या शरः स्रु
क्स्रुवः खङ्गो रुधिरं यत्र चाज्यम्।
रथो वेदी कामजो युद्धमग्नि
श्चातुर्होत्रं चतुरो वाजिमुख्याः॥ 12-24-35(75152)
हुत्वा तस्मिन्यज्ञवह्नावथारी
न्पापान्मुक्तो राजसिंहस्तरस्वी।
प्राणान्हुत्वा चावभृथे रणे स
वाजिग्रीवो मोदते देवलोके॥ 12-24-36(75153)
राष्ट्रं रक्षन्बुद्धिपूर्वं नयेन
संत्यक्तात्मा यज्ञशीलो महात्मा।
सर्वांल्लोकान्व्याप्य कीर्त्या मनस्वी
वाजिग्रीवो मोदते देवलोके॥ 12-24-37(75154)
दैवीं सिद्धिं मानुषीं दण्डनीतिं
योगन्यासैः पालयित्वा महीं च।
तस्माद्राजा धर्मशीलो महात्मा
वाजिग्रीवो मोदते देवलोके॥ 12-24-38(75155)
विद्वांस्त्यागी श्रद्दधानः कृतज्ञ
स्त्यक्त्वा लोकं मानुषं कर्म कृत्वा।
मेधाविनां विदुषां संमतानां
तनुत्यजां लोकमाक्रम्य राजा॥ 12-24-39(75156)
सम्यग्वेदान्प्राप्य शास्त्राण्यधीत्य
सम्यग्राज्यं पालयित्वा महात्मा।
चातुर्वर्ण्यं स्थापयित्वा स्वधर्मे
वाजिग्रीवो मोदते देवलोके॥ 12-24-40(75157)
जित्वा संग्रामान्पालयित्वा प्रजाश्च
सोमं पीत्वा तर्पयित्वा द्विजाग्र्यान्।
युक्त्या दण्डं धारयित्वा प्रजानां
युद्धे क्षीणे मोदते देवलोके॥ 12-24-41(75158)
वृत्तं यस्य श्लाघनीयं मनुष्याः
सन्तो विद्वांसोऽर्हयन्त्यर्हणीयम्।
स्वर्गं जित्वा वीरलोकानवाप्य
सिद्धिं प्राप्तः पुण्यकीर्तिर्महात्मा॥ ॥ 12-24-42(75159)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुविंशोऽध्यायः॥ 24॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-24-1 वचनं हिंसाप्रधानः क्षत्रधर्मो मे मास्त्वित्येवंरूपम्॥ 12-24-10 आददानस्य परस्वापहर्तुः। समानधर्मः अविषमो धर्मस्तत्र कुशलाः स्थापयन्ति अवश्यकर्तव्यतया व्यवस्थापयन्ति॥ 12-24-15 मर्षयते दस्यूनपि न हन्ति। एनसा तज्जेन पापेन॥ 12-24-17 धर्मशास्त्राणां निग्रहादतिलङ्घनाज्जातादधर्माद्धेतोश्र्यवते। तानि अनुरुध्यन्नपेतभीश्च भवति॥ 12-24-19 राष्ट्रपण्यं न कारयेति ड. थ. पाठः॥ 12-24-20 गोमिनो गोमन्तः॥ 12-24-27 स्तब्धो मान्यानमानयन्। अभ्यसूयको गुणेषु दोषदृष्टिः॥ 12-24-28 दैवेन अवर्षणादिना॥ 12-24-33 यत्कर्म कर्तव्यं तत्कर्म कृत्वेति संबन्धः॥ 12-24-35 कामजः क्रोधो युद्धमूलभूतोऽग्निः। चातुर्होत्रं ब्रह्माद्याः ऋत्विजः चतुरश्चत्वारः॥ 12-24-37 संत्यक्तात्मा त्यक्ताहकारः॥ 12-24-38 योगः क्रियायामुत्साहो न्यासा अभिमानत्यागास्तैर्युक्तां दैवी सिद्धिं यज्ञादिक्रियामन्यदीयां मानुषीं च सिद्धिं दण्डनीतिं महीं च पालयित्वेति योजना। स्वयं च यज्ञशीलः॥ 12-24-39 मानुषं लोकमिति संबन्धः। तनुत्यजां प्रयागादौ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|